Learn Sanskrit Through Ramayanam
॥ अथ अयोध्याकाण्डः ॥


एतस्मिन्नन्तरे गेहं मातुलस्य युधाजितः ।
प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥१॥
एतस्मिन् अन्तरे गेहं मातुलस्य युधाजितः । प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥१॥
एतस्मिन् अन्तरे भरतः शत्रुघ्नेन समन्वितः प्रीतः मातुलस्य युधाजितः गेहं प्रययौ ॥१॥
एतस्मिन् अन्तरे भरतः शत्रुघ्नेन समन्वितः प्रीतः मातुलस्य युधाजितः गेहं प्रययौ ॥१॥


ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः ।
अभिषेकाय रामस्य समारेभे मुदान्वितः ॥२॥
ततः प्रकृतिभिः साकं मन्त्रयित्वा सः भूपतिः । अभिषेकाय रामस्य समारेभे मुदान्वितः ॥२॥
ततः स भूपतिः मुदान्वितः प्रकृतिभिः साकं मन्त्रयित्वा रामस्य अभिषेकाय समारेभे ॥२॥
ततः स भूपतिः मुदान्वितः प्रकृतिभिः साकं मन्त्रयित्वा रामस्य अभिषेकाय समारेभे ॥२॥


कैकेयी तु महीपालं मन्थरादूषिताशया ।
वरद्वयं पुरा दत्तं ययाचे सत्यसङ्गरम् ॥३॥
कैकेयी तु महीपालं मन्थरा-दूषित-आशया । वरद्वयं पुरा दत्तं ययाचे सत्य-सङ्गरम् ॥३॥
कैकेयी तु मन्थरा-दूषित-आशया महीपालं सत्य-सङ्गरम् पुरा दत्तं वरद्वयं ययाचे ॥३॥
कैकेयी तु मन्थरा-दूषित-आशया महीपालं सत्य-सङ्गरम् पुरा दत्तं वरद्वयं ययाचे ॥३॥


सत्यसङ्गरः, पुं, (सत्यः सङ्गरः प्रतिज्ञा युद्धं वा यस्य ।) कुबेरः । इति त्रिकाण्डशेषः ॥ अन्याय-
रहितयुद्धञ्च ॥ (ऋषिविशेषः । इति महा-भारतम् । २ । ७ । १५ ॥)


वनवासाय रामस्य राज्याप्त्यै भरतस्य च ।
तस्या वरद्वयं कृच्छ्रमनुजज्ञे महीपतिः ॥४॥
वनवासाय रामस्य राज्य-आप्त्यै भरतस्य च । तस्या वरद्वयं कृच्छ्रम् अनुजज्ञे महीपतिः ॥४॥
रामस्य वनवासाय, भरतस्य च राज्य-आप्त्यै - तस्याः कृच्छ्रं वरद्वयं महीपतिः अनुजज्ञे ॥४॥
रामस्य वनवासाय, भरतस्य च राज्य-आप्त्यै - तस्याः कृच्छ्रं वरद्वयं महीपतिः अनुजज्ञे ॥४॥


रामं तदैव कैकेयी वनवासाय चादिशत् ।
अनुज्ञाप्य गुरून्सर्वान्निर्ययौ च वनाय सः ॥५॥
रामं तदा एव कैकेयी वनवासाय च आदिशत् । अनुज्ञाप्य गुरून् सर्वान् निर्ययौ च वनाय सः ॥५॥
तदा एव कैकेयी रामं वनवासाय च आदिशत् । सः गुरून् सर्वान् अनुज्ञाप्य च वनाय निर्ययौ ॥५॥
तदा एव कैकेयी रामं वनवासाय च आदिशत् । सः गुरून् सर्वान् अनुज्ञाप्य च वनाय निर्ययौ ॥५॥


दृष्ट्वा तं निर्गतं सीता लक्ष्मणश्चानुजग्मतुः ।
सन्त्यज्य स्वगृहान्सर्वे पौराश्चानुययुर्द्रुतम् ॥६॥
दृष्ट्वा तं निर्गतं सीता लक्ष्मणः च अनुजग्मतुः । सन्त्यज्य स्वगृहान् सर्वे पौराः च अनुययुः द्रुतम् ॥६॥
तं निर्गतं दृष्ट्वा सीता लक्ष्मणः च अनुजग्मतुः । सर्वे पौराः च स्वगृहान् सन्त्यज्य द्रुतम् अनुययुः ॥६॥
तं निर्गतं दृष्ट्वा सीता लक्ष्मणः च अनुजग्मतुः । सर्वे पौराः च स्वगृहान् सन्त्यज्य द्रुतम् अनुययुः ॥६॥


वञ्चयित्वा तु तान्पौरान्निद्राणान्निशि राघवः । var - कृशान् पौरान्
वाह्यमानं सुमन्त्रेण रथमारुह्य चागमत् ॥७॥
वञ्चयित्वा तु तान् पौरान् निद्राणान् निशि राघवः । वाह्यमानं सुमन्त्रेण रथम् आरुह्य च अगमत् ॥७॥
राघवः तु निशि तान् पौरान् निद्राणान् वञ्चयित्वा सुमन्त्रेण वाह्यमानं रथम् आरुह्य च अगमत् ॥७॥
राघवः तु निशि तान् पौरान् निद्राणान् वञ्चयित्वा सुमन्त्रेण वाह्यमानं रथम् आरुह्य च अगमत् ॥७॥


श्रिङ्गिबेरपुरं गत्वा गङ्गाकूलेऽथ राघवः ।
गुहेन सत्कृतस्तत्र निशामेकामुवास च ॥८॥
श्रिङ्गिबेर-पुरं गत्वा गङ्गाकूले अथ राघवः । गुहेन सत्कृतः तत्र निशाम् एकाम् उवास च ॥८॥
अथ राघवः गङ्गाकूले श्रिङ्गिबेर-पुरं गत्वा, गुहेन सत्कृतः, तत्र निशाम् एकाम् उवास च ॥८॥
अथ राघवः गङ्गाकूले श्रिङ्गिबेर-पुरं गत्वा, गुहेन सत्कृतः, तत्र निशाम् एकाम् उवास च ॥८॥


सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः ।
गुहेनानीतया नावा सन्ततार च जाह्नवीम् ॥९॥
सारथिं संनिमन्त्र्य असौ सीता-लक्ष्मण-संयुतः । गुहेन आनीतया नावा सन्ततार च जाह्नवीम् ॥९॥
असौ सीता-लक्ष्मण-संयुतः सारथिं संनिमन्त्र्य गुहेन आनीतया नावा जाह्नवीम् च सन्ततार ॥९॥
असौ सीता-लक्ष्मण-संयुतः सारथिं संनिमन्त्र्य गुहेन आनीतया नावा जाह्नवीम् च सन्ततार ॥९॥


भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः ।
राघवस्तस्य निर्देशाच्चित्रकूटेऽवसत्सुखम् ॥१०॥
भरद्वाज-मुनिं प्राप्य तं नत्वा तेन सत्कृतः । राघवः तस्य निर्देशात् चित्रकूटे अवसत् सुखम् ॥१०॥
राघवः भरद्वाज-मुनिं प्राप्य, तं नत्वा तेन सत्कृतः, तस्य निर्देशात् चित्रकूटे सुखम् अवसत् ॥१०॥
राघवः भरद्वाज-मुनिं प्राप्य, तं नत्वा तेन सत्कृतः, तस्य निर्देशात् चित्रकूटे सुखम् अवसत् ॥१०॥


अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः ।
राज्ञे न्यवेदयत्सर्वं राघवस्य विचेष्टितम् ॥११॥
अयोध्यां तु ततः गत्वा सुमन्त्रः शोक-विह्वलः । राज्ञे न्यवेदयत् सर्वं राघवस्य विचेष्टितम् ॥११॥
ततः सुमन्त्रः तु शोक-विह्वलः अयोध्यां गत्वा राज्ञे सर्वं राघवस्य विचेष्टितं न्यवेदयत् ॥११॥
ततः सुमन्त्रः तु शोक-विह्वलः अयोध्यां गत्वा राज्ञे सर्वं राघवस्य विचेष्टितं न्यवेदयत् ॥११॥


तदाकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः ।
राम रामेति विलपन्देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् आकर्ण्य सुमन्त्र-उक्तं राजा दुःख-विमूढधीः । राम राम इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् सुमन्त्र-उक्तम् आकर्ण्य दुःख-विमूढ-धीः राजा राम राम इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् सुमन्त्र-उक्तम् आकर्ण्य दुःख-विमूढ-धीः राजा राम राम इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥


मन्त्रिणस्तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः ।
दूतैरानाययन् क्षिप्रं भरतं मातुलालयात् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या देहं संरक्ष्य भूपतेः । दूतैः आनाययन् क्षिप्रं भरतं मातुल-आलयात् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या भूपतेः देहं संरक्ष्य, क्षिप्रं दूतैः भरतं मातुल-आलयात् आनाययन् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या भूपतेः देहं संरक्ष्य, क्षिप्रं दूतैः भरतं मातुल-आलयात् आनाययन् ॥१३॥


भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा ।
संस्कारादि चकारास्य यथाविधि सहानुजः ॥१४॥
भरतः तु मृतं श्रुत्वा पितरं कैकयी-गिरा । संस्कारादि चकार अस्य यथाविधि सह-अनुजः ॥१४॥
भरतः तु पितरं कैकयी-गिरा मृतं श्रुत्वा, सह-अनुजः अस्य यथाविधि संस्कारादि चकार ॥१४॥
भरतः तु पितरं कैकयी-गिरा मृतं श्रुत्वा, सह-अनुजः अस्य यथाविधि संस्कारादि चकार ॥१४॥


अमात्यैश्चोद्यमानोऽपि राज्याय भरतस्तदा ।
वनायैव ययौ राममानेतुं नागरैः सह ॥१५॥
अमात्यैः चोद्यमानः अपि राज्याय भरतः तदा । वनाय एव ययौ रामम् आनेतुं नागरैः सह ॥१५॥
तदा भरतः अमात्यैः राज्याय चोद्यमानः अपि रामम् आनेतुं नागरैः सह वनाय एव ययौ ॥१५॥
तदा भरतः अमात्यैः राज्याय चोद्यमानः अपि रामम् आनेतुं नागरैः सह वनाय एव ययौ ॥१५॥


स गत्वा चित्रकूटस्थं रामं चीरजटाधरम् ।
ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर्द्विजैः सह ॥१६॥
सः गत्वा चित्रकूटस्थं रामं चीरजटा-धरम् । ययाचे रक्षितुं राज्यं वसिष्ठाद्यैः द्विजैः सह ॥१६॥
सः वसिष्ठाद्यैः द्विजैः सह गत्वा चित्रकूटस्थं चीरजटा-धरम् रामं राज्यं रक्षितुं ययाचे ॥१६॥
सः वसिष्ठाद्यैः द्विजैः सह गत्वा चित्रकूटस्थं चीरजटा-धरम् रामं राज्यं रक्षितुं ययाचे ॥१६॥


चतुर्दश समा नीत्वा पुनरेष्याम्यहं पुरीम् । (पुनरैष्याम्यहं)
इत्युक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥
चतुर्दश समा नीत्वा पुनः एष्यामि अहं पुरीम् । इति उक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥
अहं चतुर्दश समा नीत्वा पुनः पुरीम् एष्यामि । इति उक्त्वा, पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥


गृहीत्वा पादुके तस्माद्भरतो दीनमानसः ।
नन्दिग्रामे स्थितस्ताभ्यां ररक्ष च वसुन्धराम् ॥१८॥
गृहीत्वा पादुके तस्माद् भरतः दीनमानसः । नन्दिग्रामे स्थितः ताभ्यां ररक्ष च वसुन्धराम् ॥१८॥
दीनमानसः भरतः तस्माद् पादुके गृहीत्वा नन्दिग्रामे स्थितः ताभ्यां वसुन्धरां ररक्ष च ॥१८॥
दीनमानसः भरतः तस्माद् पादुके गृहीत्वा नन्दिग्रामे स्थितः ताभ्यां वसुन्धरां ररक्ष च ॥१८॥


राघवस्तु गिरेस्तस्माद्गत्वाऽत्रिं समवन्दत ।
तत्पत्नी तु तदा सीतां भूषणैः स्वैरभूषयत् ॥१९॥
राघवः तु गिरेः तस्माद् गत्वा अत्रिं समवन्दत । तत्पत्नी तु तदा सीतां भूषणैः स्वैः अभूषयत् ॥१९॥
राघवः तु तस्माद् गिरेः गत्वा अत्रिं समवन्दत । तदा तत्पत्नी तु सीतां स्वैः भूषणैः अभूषयत् ॥१९॥
राघवः तु तस्माद् गिरेः गत्वा अत्रिं समवन्दत । तदा तत्पत्नी तु सीतां स्वैः भूषणैः अभूषयत् ॥१९॥


उषित्वा तु निशामेकामाश्रमे तस्य राघवः ।
विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥२०॥
उषित्वा तु निशाम् एकाम् आश्रमे तस्य राघवः । विवेश दण्डकारण्यं सीतालक्ष्मण-संयुतः ॥२०॥
राघवः तस्य आश्रमे निशाम् एकाम् उषित्वा तु सीतालक्ष्मण-संयुतः दण्डकारण्यं विवेश ॥२०॥
राघवः तस्य आश्रमे निशाम् एकाम् उषित्वा तु सीतालक्ष्मण-संयुतः दण्डकारण्यं विवेश ॥२०॥


॥इति श्रीरामोदन्ते अयोध्याकाण्डः समाप्तः ॥

Dear you, Thanks for Visiting Brahmins Net!
JaiHind! Feel free to post whatever you think useful, legal or humer! Click here to Invite Friends