Announcement

Collapse
No announcement yet.

Learn Sanskrit Through Ramayanam

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Learn Sanskrit Through Ramayanam

    Learn Sanskrit Through Ramayanam
    ॥अथ किष्किन्धाकाण्डः ॥


    हनूमानथ सुग्रीवनिर्दिष्टो रामलक्ष्मणौ ।
    प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥१॥var - श्रुत्वा
    हनूमान् अथ सुग्रीव-निर्दिष्टः राम-लक्ष्मणौ । प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥१॥
    अथ सुग्रीव-निर्दिष्टः हनूमान् राम-लक्ष्मणौ प्राप्य तु वृत्तान्तं ज्ञात्वा तेन तौ समयोजयत् ॥१॥
    अथ सुग्रीव-निर्दिष्टः हनूमान् राम-लक्ष्मणौ प्राप्य तु वृत्तान्तं ज्ञात्वा तेन तौ समयोजयत् ॥१॥




    ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः ।
    सख्यं च कारयामास तयोः पावकसन्निधौ ॥२॥
    ततः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः । सख्यं च कारयामास तयोः पावक-सन्निधौ ॥२॥
    ततः सः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य, तयोः पावक-सन्निधौ सख्यं च कारयामास ॥२॥
    ततः सः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य, तयोः पावक-सन्निधौ सख्यं च कारयामास ॥२॥


    प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम् ।
    दर्शयिष्यामि वैदेहीमित्यन्येन च संश्रुतम् ॥३॥
    प्रतिजज्ञे तदा रामः हनिष्यामि इति वालिनम् । दर्शयिष्यामि वैदेहीम् इति अन्येन च संश्रुतम् ॥३॥
    तदा रामः प्रतिजज्ञे वालिनम् हनिष्यामि इति; वैदेहीं दर्शयिष्यामि इति अन्येन च संश्रुतम् ॥३॥
    तदा रामः प्रतिजज्ञे वालिनम् हनिष्यामि इति; वैदेहीं दर्शयिष्यामि इति अन्येन च संश्रुतम् ॥३॥


    सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम् ।
    निवेदितमशेषं च बलाधिक्यं च तस्य तत् ॥४॥
    सुग्रीवेण अथ रामाय भ्रातृ-वैरस्य कारणम् । निवेदितम् अशेषं च बल-आधिक्यं च तस्य तत् ॥४॥
    अथ सुग्रीवेण रामाय भ्रातृ-वैरस्य कारणम्, अशेषं च तस्य तत् बल-आधिक्यं च निवेदितम् ॥४॥
    अथ सुग्रीवेण रामाय भ्रातृ-वैरस्य कारणम्, अशेषं च तस्य तत् बल-आधिक्यं च निवेदितम् ॥४॥


    तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् ।
    सुदूरं प्रेषयामास पादाङ्गुष्ठेन राघवः ॥५॥
    तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् । सुदूरं प्रेषयामास पाद-अङ्गुष्ठेन राघवः ॥५॥
    तत्क्षणं सुग्रीवेण दुन्दुभेः कायं प्रदर्शितम् । राघवः पाद-अङ्गुष्ठेन सुदूरं प्रेषयामास ॥५॥
    तत्क्षणं सुग्रीवेण दुन्दुभेः कायं प्रदर्शितम् । राघवः पाद-अङ्गुष्ठेन सुदूरं प्रेषयामास ॥५॥


    पुनश्च दर्शितांस्तेन सालान्सप्त रघूत्तमः ।
    बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥६॥
    पुनः च दर्शितान् तेन सालान् सप्त रघूत्तमः । बाणेन एकेन चिच्छेद सार्धं तस्य अनुशङ्कया ॥६॥
    पुनः च रघूत्तमः तेन दर्शितान् सप्त सालान् एकेन बाणेन, सार्धं तस्य अनुशङ्कया चिच्छेद ॥६॥
    पुनः च रघूत्तमः तेन दर्शितान् सप्त सालान् एकेन बाणेन, सार्धं तस्य अनुशङ्कया चिच्छेद ॥६॥


    किष्किन्धां प्राप्य सुग्रीवस्ततो रामसमन्वितः ।
    जगर्जातीव संहृष्टः कोपयन् वानराधिपम् ॥७॥
    किष्किन्धां प्राप्य सुग्रीवः ततः राम-समन्वितः । जगर्ज अतीव संहृष्टः कोपयन् वानर-अधिपम् ॥७॥
    ततः सुग्रीवः राम-समन्वितः किष्किन्धां प्राप्य अतीव संहृष्टः, वानर-अधिपम् कोपयन् जगर्ज ॥७॥
    ततः सुग्रीवः राम-समन्वितः किष्किन्धां प्राप्य अतीव संहृष्टः, वानर-अधिपम् कोपयन् जगर्ज ॥७॥


    वाली निष्क्रम्य सुग्रीवं समरेऽपीडयद्भृशम् ।
    सोऽपि सम्भग्नसर्वाङ्गः प्राद्रवद्राघवान्तिकम् ॥८॥
    वाली निष्क्रम्य सुग्रीवं समरे अपीडयद् भृशम् । सः अपि सम्भग्न-सर्वाङ्गः प्राद्रवद् राघव-अन्तिकम् ॥८॥
    वाली निष्क्रम्य, समरे सुग्रीवं भृशम् अपीडयत् । स अपि सम्भग्न-सर्वाङ्गः राघव-अन्तिकम् प्राद्रवद् ॥८॥
    वाली निष्क्रम्य, समरे सुग्रीवं भृशम् अपीडयत् । स अपि सम्भग्न-सर्वाङ्गः राघव-अन्तिकम् प्राद्रवद् ॥८॥


    कृतचिह्नस्तु रामेण पुनरेव स वालिनम् ।
    रणायाह्वयत क्षिप्रं तस्थौ रामस्तिरोहितः ॥९॥
    कृतचिह्नः तु रामेण पुनः एव सः वालिनम् । रणाय आह्वयत क्षिप्रं तस्थौ रामः तिरोहितः ॥९॥
    पुनः एव रामेण कृतचिह्नः तु सः वालिनम् क्षिप्रं रणाय आह्वयत । रामः तिरोहितः तस्थौ ॥९॥
    पुनः एव रामेण कृतचिह्नः तु सः वालिनम् क्षिप्रं रणाय आह्वयत । रामः तिरोहितः तस्थौ ॥९॥


    हेममाली ततो वाली तारयाऽभिहितं हितम् ।
    निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥१०॥
    हेममाली ततः वाली तारया अभिहितं हितम् । निरस्य कुपितः भ्रात्रा रणं चक्रे सुदारुणम् ॥१०॥
    ततः हेममाली वाली तारया अभिहितं हितं निरस्य, कुपितः भ्रात्रा सुदारुणं रणं चक्रे ॥१०॥
    ततः हेममाली वाली तारया अभिहितं हितं निरस्य, कुपितः भ्रात्रा सुदारुणं रणं चक्रे ॥१०॥


    बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत् ।
    सोऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥११॥
    बाणेन वालिनं रामः विद्ध्वा भूमौ न्यपातयत् । सः अपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥११॥
    रामः वालिनं बाणेन विद्ध्वा भूमौ न्यपातयत् । सः अपि ‘राम’ इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ ॥११॥
    रामः वालिनं बाणेन विद्ध्वा भूमौ न्यपातयत् । सः अपि ‘राम’ इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ ॥११॥


    पश्चात्तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः ।
    वानराणामधिपतिं चकाराश्रितवत्सलः ॥१२॥
    पश्चात् तपन्तं सुग्रीवं समाश्वास्य रघु-उत्तमः । वानराणाम् अधिपतिं चकार आश्रित-वत्सलः ॥१२॥
    पश्चात् रघु-उत्तमः आश्रित-वत्सलः तपन्तं सुग्रीवं समाश्वास्य वानराणाम् अधिपतिं चकार ॥१२॥
    पश्चात् रघु-उत्तमः आश्रित-वत्सलः तपन्तं सुग्रीवं समाश्वास्य वानराणाम् अधिपतिं चकार ॥१२॥


    ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः ।
    उवास चतुरो मासान्सीताविरहदुःखितः ॥१३॥
    ततः माल्यवतः पृष्ठे रामः लक्ष्मण-संयुतः । उवास चतुरः मासान् सीता-विरह-दुःखितः ॥१३॥
    ततः रामः लक्ष्मण-संयुतः माल्यवतः पृष्ठे चतुरः सीता-विरह-दुःखितः मासान् उवास ॥१३॥
    ततः रामः लक्ष्मण-संयुतः माल्यवतः पृष्ठे चतुरः सीता-विरह-दुःखितः मासान् उवास ॥१३॥


    अथ रामस्य निर्देशाल्लक्ष्मणो वानराधिपम् ।
    आनयत्प्लवगैः सार्धं हनूमत्प्रमुखैर्गिरिम् ॥१४॥
    अथ रामस्य निर्देशात् लक्ष्मणः वानर-अधिपम् । आनयत् प्लवगैः सार्धं हनूमत्-प्रमुखैः गिरिम् ॥१४॥
    अथ लक्ष्मणः रामस्य निर्देशात् प्लवगैः सार्धं हनूमत्-प्रमुखैः वानर-अधिपम् गिरिम् आनयत् ॥१४॥
    अथ लक्ष्मणः रामस्य निर्देशात् प्लवगैः सार्धं हनूमत्-प्रमुखैः वानर-अधिपम् गिरिम् आनयत् ॥१४॥


    सुग्रीवो राघवं दृष्ट्वा वचनात्तस्य वानरान् ।
    न्ययुङ्क्त सीतामन्वेष्टुमाशासु चतसृष्वपि ॥१५॥
    सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् । न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि ॥१५॥
    सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् । न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि ॥१५॥


    ततो हनुमतः पाणौ ददौ रामोऽङ्गुलीयकम् ।
    विश्वासाय तु वैदेह्यास्तद्गृहीत्वा स निर्ययौ ॥१६॥
    ततः हनुमतः पाणौ ददौ रामः अङ्गुलीयकम् । विश्वासाय तु वैदेह्याः तद्गृहीत्वा स निर्ययौ ॥१६॥
    ततः रामः हनुमतः पाणौ अङ्गुलीयकं ददौ । स वैदेह्याः विश्वासाय तु तद्गृहीत्वा निर्ययौ ॥१६॥
    ततः रामः वैदेह्याः विश्वासाय हनुमतः पाणौ अङ्गुलीयकं ददौ । स तु तद्गृहीत्वा निर्ययौ ॥१६॥


    ततो हनूमत्प्रमुखाः वानरा दक्षिणां दिशम् ।
    गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यमाप्नुवन् ॥१७॥
    ततः हनूमत्-प्रमुखाः वानराः दक्षिणां दिशम् । गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥
    ततः हनूमत्-प्रमुखाः वानरा दक्षिणां दिशम् गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥
    ततः हनूमत्-प्रमुखाः वानरा दक्षिणां दिशम् गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥


    समयातिक्रमात्तत्र चक्रुः प्रायोपवेशनम् ।
    तेऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
    समय-अतिक्रमात् तत्र चक्रुः प्रायोपवेशनम् । ते अत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
    (ते) तत्र समय-अतिक्रमात् प्रायोपवेशनम् चक्रुः । अत्र ते सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
    (ते) तत्र समय-अतिक्रमात् प्रायोपवेशनम् चक्रुः । अत्र ते सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥


    ततः प्रापुरुदन्वन्तमङ्गदाद्याः प्लवङ्गमाः ।
    तं विलङ्घयितुं तेषां न कश्चिदभवत्क्षमः ॥१९॥
    ततः प्रापुः उदन्वन्तम् अङ्गदाद्याः प्लवङ्गमाः । तं विलङ्घयितुं तेषां न कश्चिद् अभवत् क्षमः ॥१९॥
    ततः अङ्गदाद्याः प्लवङ्गमाः उदन्वन्तं प्रापुः । तं विलङ्घयितुं तेषां कश्चिद् क्षमः न अभवत् ॥१९॥
    ततः अङ्गदाद्याः प्लवङ्गमाः उदन्वन्तं प्रापुः । तं विलङ्घयितुं तेषां कश्चिद् क्षमः न अभवत् ॥१९॥


    स्वप्रभावप्रशंसाभिस्तदा जाम्बवदुक्तिभिः ।
    संवर्धितो महेन्द्राद्रिमारुरोहानिलात्मजः ॥२०॥
    स्वप्रभाव-प्रशंसाभिः तदा जाम्बवद्-उक्तिभिः । संवर्धितः महेन्द्राद्रिम् आरुरोह अनिलात्मजः ॥२०॥
    तदा अनिलात्मजः जाम्बवद्-उक्तिभिः स्वप्रभाव-प्रशंसाभिः संवर्धितः महेन्द्राद्रिम् आरुरोह ॥२०॥
    तदा अनिलात्मजः जाम्बवद्-उक्तिभिः स्वप्रभाव-प्रशंसाभिः संवर्धितः महेन्द्राद्रिम् आरुरोह ॥२०॥


    ॥इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः ॥
Working...
X