Learn Sanskrit Through Ramayanam
॥अथ सुन्दरकाण्डः ॥


अभिवन्द्याथ सकलानमरान्पवनात्मजः ।
पुप्लुवे च गिरेस्तस्माद्विलङ्घयितुमर्णवम् १॥
अभिवन्द्य अथ सकलान् अमरान् पवन-आत्मजः । पुप्लुवे च गिरेः तस्माद् विलङ्घयितुम् अर्णवम् ॥१॥
अथ पवन-आत्मजः सकलान् अमरान् अभिवन्द्य च तस्माद् गिरेः अर्णवं विलङ्घयितुम् पुप्लुवे ॥१॥
अथ पवन-आत्मजः सकलान् अमरान् अभिवन्द्य च तस्माद् गिरेः अर्णवं विलङ्घयितुम् पुप्लुवे ॥१॥


स समुल्लङ्घ्य मैनाकं सुरसामभिवन्द्य च ।
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥२॥
सः समुल्लङ्घ्य मैनाकं सुरसाम् अभिवन्द्य च । निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥२॥
सः मैनाकं समुल्लङ्घ्य, सुरसाम् अभिवन्द्य च सिंहिकां नीत्या निहत्य, महोदधेः पारं प्राप ॥२॥
सः मैनाकं समुल्लङ्घ्य, सुरसाम् अभिवन्द्य च सिंहिकां नीत्या निहत्य, महोदधेः पारं प्राप ॥२॥


लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः ।
सीतां विचिन्वन्नद्राक्षीन्निद्राणं निशि रावणं ॥३॥
लङ्का-अधिदेवतां जित्वा तां प्रविश्य अनिलात्मजः । सीतां विचिन्वन् अद्राक्षीत् निद्राणं निशि रावणं ॥३॥
अनिलात्मजः लङ्का-अधिदेवतां जित्वा, तां प्रविश्य, सीतां विचिन्वन्, निशि निद्राणं रावणम् अद्राक्षीत् ॥३॥


अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः ।
अशोकवनिकां गत्वा कां चिदार्तां ददर्श सः ॥४॥var - सीतां खिन्नां
अपश्यन् तत्र वैदेहीं विचिन्वानः ततः ततः । अशोक-वनिकां गत्वा कां चिदार्तां ददर्श सः ॥४॥
तत्र वैदेहीं अपश्यन्, ततः ततः विचिन्वानः, सः अशोक-वनिकां गत्वा कां चिदार्तां ददर्श ॥४॥
तत्र वैदेहीं अपश्यन्, ततः ततः विचिन्वानः, सः अशोक-वनिकां गत्वा कां चिदार्तां ददर्श ॥४॥


पादपं कञ्चिदारुह्य तत्पलाशैः सुसंवृतः ।
आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन् ॥५॥
पादपं कञ्चिद् आरुह्य तत्पलाशैः सुसंवृतः । आस्ते स्म मारुतिः तत्र सीता इयम् इति तर्कयन् ॥५॥
मारुतिः कञ्चिद् पादपम् आरुह्य, तत्पलाशैः सुसंवृतः, तत्र सीता इयम् इति तर्कयन् आस्ते स्म ॥५॥
मारुतिः कञ्चिद् पादपम् आरुह्य, तत्पलाशैः सुसंवृतः, तत्र सीता इयम् इति तर्कयन् आस्ते स्म ॥५॥

Dear you, Thanks for Visiting Brahmins Net!
JaiHind! Feel free to post whatever you think useful, legal or humer! Click here to Invite Friends




रावणस्तु तदाऽभ्येत्य मैथिलीं मदनार्दितः ।
भार्या भव ममेत्येवं बहुधा समयाचत ॥६॥
रावणः तु तदा अभ्येत्य मैथिलीं मदनार्दितः । भार्या भव मम इति एवं बहुधा समयाचत ॥६॥
तदा रावणः तु मदनार्दितः अभ्येत्य, मैथिलीं भार्या भव मम इति एवं बहुधा समयाचत ॥६॥
तदा रावणः तु मदनार्दितः अभ्येत्य, मैथिलीं भार्या भव मम इति एवं बहुधा समयाचत ॥६॥


अहं त्वद्वशगा न स्यामित्येषा तं निराकरोत् । var - त्वदनुगा
काममन्युपरीतात्मा रावणोऽपि तदा ययौ ॥७॥
अहं त्वद्वशगा न स्याम् इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥
अहं त्वद्-वशगा न स्याम् इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥
अहं त्वद्-वशगा न स्याम् इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥


निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः ।
उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥८॥
निर्गते रावणे सीतां प्रलपन्तीं सः मारुतिः । उक्त्वा रामस्य वृत्तान्तं प्रददौ च अङ्गुलीयकम् ॥८॥
निर्गते रावणे, सः मारुतिः, प्रलपन्तीं सीतां, रामस्य वृत्तान्तं उक्त्वा अङ्गुलीयकं च प्रददौ ॥८॥
निर्गते रावणे, सः मारुतिः, प्रलपन्तीं सीतां, रामस्य वृत्तान्तं उक्त्वा अङ्गुलीयकं च प्रददौ ॥८॥


तत्समादाय वैदेही विलप्य च भृशं पुनः ।
चूडामणिं ददौ तस्य करे जग्राह सोऽपि तम् ॥९॥
तत्समादाय वैदेही विलप्य च भृशं पुनः । चूडामणिं ददौ तस्य करे जग्राह सः अपि तम् ॥९॥
वैदेही तत्समादाय भृशं च विलप्य, पुनः चूडामणिं तस्य करे ददौ । सः अपि तं जग्राह ॥९॥
वैदेही तत्समादाय भृशं च विलप्य, पुनः चूडामणिं तस्य करे ददौ । सः अपि तं जग्राह ॥९॥


मा विषादं कृथा देवि राघवो रावणं रणे ।
हत्वा त्वां नेष्यतीत्येनामाश्वास्य स विनिर्ययौ ॥१०॥
मा विषादं कृथा देवि राघवः रावणं रणे । हत्वा त्वां नेष्यति इति एनाम् आश्वास्य सः विनिर्ययौ ॥१०॥
देवि, मा विषादं कृथाः। राघवः रावणं रणे हत्वा त्वां नेष्यति। इति सः एनाम् आश्वास्य विनिर्ययौ ॥१०॥
देवि, मा विषादं कृथाः। राघवः रावणं रणे हत्वा त्वां नेष्यति। इति सः एनाम् आश्वास्य विनिर्ययौ ॥१०॥


नीतिमान् सोऽपि सञ्चिन्त्य बभञ्जोपवनं च तत् ।
अक्षादीनि च रक्षांसि बहूनि समरेऽवधीत् ॥११॥
नीतिमान् सः अपि सञ्चिन्त्य बभञ्ज उपवनं च तत् । अक्षादीनि च रक्षांसि बहूनि समरे अवधीत् ॥११॥
सः नीतिमान् अपि सञ्चिन्त्य, उपवनं च तत् बभञ्ज । अक्षादीनि च बहूनि रक्षांसि समरे अवधीत् ॥११॥
सः नीतिमान् अपि सञ्चिन्त्य, उपवनं च तत् बभञ्ज । अक्षादीनि च बहूनि रक्षांसि समरे अवधीत् ॥११॥


ततः शक्रजिता युद्धे बद्धः पवननन्दनः ।
प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥१२॥ var - रावणं तं
ततः शक्रजिता युद्धे बद्धः पवन-नन्दनः । प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥१२॥
ततः पवन-नन्दनः युद्धे शक्रजिता बद्धः, रघुनाथस्य प्रतापं रावणाय न्यवेदयत् ॥१२॥
ततः पवन-नन्दनः युद्धे शक्रजिता बद्धः, रघुनाथस्य प्रतापं रावणाय न्यवेदयत् ॥१२॥


रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः ।
दग्ध्वा सागरमुत्तीर्य वानरान्समुपागमत् ॥१३॥
रक्षो-दीपित-लाङ्गूलः सः तु लङ्काम् अशेषतः । दग्ध्वा सागरम् उत्तीर्य वानरान् समुपागमत् ॥१३॥
स तु रक्षो-दीपित-लाङ्गूलः लङ्काम् अशेषतः दग्ध्वा, सागरम् उत्तीर्य, वानरान् समुपागमत् ॥१३॥
स तु रक्षो-दीपित-लाङ्गूलः लङ्काम् अशेषतः दग्ध्वा, सागरम् उत्तीर्य, वानरान् समुपागमत् ॥१३॥


स गत्वा वानरैः साकं राघवायात्मना कृतम् ।
निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥१४॥
सः गत्वा वानरैः साकं राघवाय आत्मना कृतम् । निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥१४॥
स वानरैः साकं गत्वा राघवाय आत्मना कृतं सकलं निवेदयित्वा, चूडामणिं च तम् ददौ ॥१४॥
स वानरैः साकं गत्वा राघवाय आत्मना कृतं सकलं निवेदयित्वा, चूडामणिं च तम् ददौ ॥१४॥


॥इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः ॥