Announcement

Collapse
No announcement yet.

ca, vai, tu hi in sanskrit sloka

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • ca, vai, tu hi in sanskrit sloka

    courtesy: https://sanskritwisdom.wordpress.com...rom-tola-kavi/


    Though the words
    च वै तु हि have no meaning in Sanskrit they can be used to complete the metre of that sloka.
    च वै तु हि च वे तु हि – A humorous sloka from Tola Kavi
    Posted on नवम्बर 16, 2009
    पुरा केरले तोलः नामकः एकः अनुगृहीतः कवि आसीत्। मलयालभाषायां संस्कृते च बहूनि नाटकानि एवं काव्यानि तेन रचितानि। परन्तु केरलीयाः अद्य प्रायशः तस्य सरसश्लोकान्येव स्मरन्ति। तेषामेकः सरसश्लोकः अत्र दीयते।
    उत्तिष्ठोत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः।
    एष आह्वयते कुक्कुः च वै तु हि च वे तु हि॥
    अस्मिन् श्लोके द्वितीयपादे टः शब्दः, तृतीये पादे "कुक्कुः", पूर्णः अन्तिमपादश्च अवगन्तुं किंचित् क्लेशः स्यात्। बहुशः संस्कृतकवयः श्लोकेषु अन्वयक्रमं विना एकस्यैव वाक्यस्य पदान् विविधपादेषु प्रयुज्यन्ति। एतत् तोलकवये न रोचते। तस्य मतानुसारेण यदि एकस्य वाक्यस्य विविधान् पदान् श्लोकस्य विभिन्न पादेषु प्रयोक्तुं शक्यते चेत् एकस्य पदस्य विभिन्नान् शब्दानपि भिन्नपंक्तिषु किमर्थं न लिखितव्यम्? एतत् प्रमाणयितुं तेन कुक्कुटपदं विभज्य पृथक् पंक्तयोः लिखितम्।
    प्रायशः कवयः श्लोकेषु चकारादीनां अव्ययानां अत्र तत्र वृथा प्रयोगं कुर्वन्ति। तस्योपसार्थं तेन चकारादीनि अव्ययानि एकत्र अन्तिम पादे उपयोक्तानि – च वै तु हि च वे तु हि।
    अतः श्लोकस्य भावार्थः एवमस्ति – "हे राजेन्द्र, उत्तिष्ठ उत्तिष्ठ, मुखं प्रक्षालयस्व। एषः कुक्कुटः आह्वयते" इति॥
Working...
X