Announcement

Collapse
No announcement yet.

Re: Quiz on Sanskrit Grammar

Collapse
X
 
  • Filter
  • Time
  • Show
Clear All
new posts

  • Re: Quiz on Sanskrit Grammar

    नमस्ते
    अष्टाध्यायाः एतादृश प्रश्नोत्तर रूपं उत्तमः अस्ति | विध्यार्थेभ्यः बहु उपयुक्तः भवति | कृपय मालिका रूपेण इदं Quiz प्रवर्तनं कुरुत इति विज्ञापयामि |


    On Wednesday, August 9, 2017 at 5:23:19 PM UTC+5:30, KN.Ramesh wrote:
    संस्कृत-व्याकरण-शास्त्र-प्रश्नोत्तरी
    ===================


    (१.) "अष्टाध्यायी" इत्यस्य ग्रन्थस्य रचनाकारः कः ? – पाणिनिः
    (२.) अष्टाध्याय्यां कति अध्यायाः ? – अष्टौ
    (३.) अष्टाध्याय्यां कति पादाः ? -३२
    (४.) सिद्धान्तकौमुदी इत्यस्य रचयिता क: ? – भट्टोजिदीक्षित:।
    (५.) बालमनोरमाटीकाया: कर्ता क: ? – वासुदेवदीक्षित:।
    (६.) तत्त्वबोधिनीव्याख्याया: कर्ता क: ? – श्रीज्ञानेन्द्रसरस्वती ।
    (७.) प्रक्रियाकौमुदी इत्यस्य ग्रन्थस्य कर्त्ता कः ? – रामचन्द्रः
    (८.) अष्टाध्याय्यां प्रत्याहारसूत्राणि कति ? – चतुर्दश।
    (९.) प्रत्याहारसूत्रेषु को*ऽयं वर्ण: द्विरनुबध्यते ?- णकार:।
    (१०.) प्रत्याहारसूत्रेषु को*ऽयं वर्ण: द्विरुपदिष्ट: ? – हकार:।
    (११.) किमर्थमुपदिष्टानि प्रत्याहारसूत्राणि ?- अणादिप्रत्याहारसंज्ञार्थानि।
    (१२.) वेदपुरुषस्य मुखात्मकं वेदाङ्गं किम् ? – व्याकरणम् ।
    (१३.) हकारादिषु अकार: किमर्थम् ?- उच्चारणार्थ:।
    (१४.) सूत्राणां प्रकाराः कति ? के ते ? – सप्त– संज्ञा,परिभाषा, विधि:, नियम:, निषेधः, अतिदेश:,अधिकार:।
    (१५.) व्याकरणस्य कति सम्प्रदायाः सन्ति ? – अष्टौ ।
    (१६.) किं नाम संज्ञासूत्रम् ? – संज्ञासंज्ञिसम्बन्धबोधकं सूत्रम् ।
    (१७.) किं नाम परिभाषात्वम् ? – अनियमे नियमकारिणीत्वम् ।
    (१८) किं नाम विधिसूत्रम् ? – आगम-आदेशादिविधायकं सूत्रम् ।
    (१९.) सम्प्रति व्याकरणस्य प्रतिनिधिग्रन्थः कः ? – शब्दानुशासनम् ।
    (२०.) को नाम नियम: ? – सिद्धे सति आरभ्यमाण: विधि: नियम: ।
    (२१.) को नाम अतिदेश: ? – अविद्यमानस्य धर्मस्य विद्यमानत्वकल्पनम् ।
    (२२.) किं नाम अधिकारत्वम् ? – स्वदेशेफलशून्यत्वे सति उत्तरत्र फलजनकत्वम् ।
    (२३.) अष्टाध्याय्याः प्रथमसूत्रं किम् ? – वृद्धिरादैच् ।
    (२४.) अन्त्यहलाम् इत्संज्ञाविधायकं सूत्रं किम् ?- हलन्त्यम् (१.३.३)
    (२५.) अनुनासिकाचाम् इत्संज्ञाविधायकं सूत्रं किम् ?- उपदेशेऽजनुनासिक इत् (१.३.२)
    (२६.) आदिरन्त्येन सहेता (१.१.७१) इति सूत्रेण किं विधीयते ?- प्रत्याहारसंज्ञा ।
    (२७.) प्रत्याहारेषु इतामग्रहणे किं प्रमानम् ? – अनुनासिक इत्यादिनिर्देश:।
    (२८.) कस्य ह्रस्व: , दीर्घ:, प्लुत: इति संज्ञा ?
    उत्तरः–एकमात्राकालिकस्य अच: ह्रस्व: इति, द्विमात्राकालिकस्याच: दीर्घ: इति, त्रिमात्राकालिकस्य अच: प्लुत: इति संज्ञा।
    (२९.) अनुनासिकसंज्ञासूत्रम् किम् ?- मुखनासिकावचनोऽनुनासिक१.१.८)।
    (३०.) अकारस्य कति भेदा: ?- अष्टादश ।
    (३१.) लृवर्णस्य क: भेद: नास्ति ? – दीर्घ: ।
    (३२.) एचां क: भेद: नास्ति ? – ह्रस्व: ।
    (३३.) सवर्णसंज्ञासूत्रं किम् ? – तुल्यास्यप्रयत्नं सवर्णम् (१.१.९) ।
    (३४.) कण्ठस्थानं केषां वर्णानाम् ? – अकुहविसर्जनीयानाम् ।
    (३५) तालुस्थाने के के वर्णा: निष्पद्यन्ते ? – इचुयशा:। (इ,ई,च्,छ्,ज्,झ्,ञ्,य्,श्)
    (३६.) केषां वर्णानाम् उत्पत्तिस्थानं मूर्धा ? – ऋटुरषाणाम् ।
    (३७.) लृतुलसा: कुत्र निष्पद्यन्ते ? – दन्तेषु ।
    (३८.) उपूपधमानीयानाम् उत्पत्तिस्थानं किम् ? – ओष्ठौ।
    (३९.) ञमङणनानां क: अधिक: गुण: ? – नासिका ।
    (४०.) वकारस्य निस्पत्तिस्थानं किम् ? – दन्तोष्ठम् ।
    (४१.) अनुस्वार: क्व निष्पद्यते ? – नासिकायाम् ।
    (४२.) प्रयत्न: कतिविध: ? – द्विविध: ।
    (४३.) तौ प्रयत्नौ कौ ? – आभ्यन्तर:, बाह्य: ।
    (४४.) आभ्यन्तर: कतिविध: ? – पञ्चविधः ।
    (४५.) ते आभ्यन्तरा: के ? – स्पृष्टम् , ईषत्-स्पृष्टम् , विवृतम् , ईषत्-विवृतम् , संवृतम् च ।
    (४६.) स्पृष्टप्रयत्न: केषां वर्णानाम् ? – स्पर्शानाम्।
    (४७.) ईषत्स्पृष्टं केषां वर्णानाम् ? – अन्त:स्थानाम्।
    (४८.) केषां वर्णानां विवृतप्रयत्न: ? – ऊष्माणां स्वराणाञ्च ।
    (४९.) कस्य संवृतम् ? – ह्रस्वस्य अकारस्य प्रयोगे संवृतम्।
    (५०.) विवृतस्य अकारस्य संवृतत्वं केन सूत्रेण विधीयते ? – अ अ (८.४.६७)
    (५१.) पूर्वत्रासिद्धं (८.२.१) कीदृशं सूत्रम् ? – अधिकारसूत्रम् ।
    (५२.) यमो नाम क: ? – वर्गेषु आद्यानां चतुर्णां पञ्चमे वर्णे परे पूर्व सदृश: कश्चिद् वर्ण: " यम:" भवति।
    (५३.) स्पर्शवर्णा: के ? – ककारादारभ्य मकारपर्यन्तम्। (कादयो मावसानाः ।
    (५४.) अन्त:स्था: के ? – य्, र्, ल्, व् ।
    (५५.) ऊष्माण: के ? – श्, ष्, स्, ह् ।
    (५६.) स्वरा: के ? – अच: ।
    (५७.) को नाम जिह्वामूलीय: ? – ॅ क ॅ ख इति कखाभ्यां प्राग् अर्धविसर्गसदृश: ।


    (५८.) उपध्मानीयो नाम क: ? – ॅ प ॅ फ इति पफाभ्यां प्राग् अर्धविसर्गसदृश: ।
    (५९.) सवर्णग्राहकं सूत्रं किम् ? -अणुदित्सवर्णस्य चाप्रत्यय१.१.६८)
    (६०.) बाह्यप्रयत्ना: कति ? – एकादश ।
    (६१.) ते च के ? – विवार:, संवार:, श्वास:, नाद: घोष:, अघोष:, अल्पप्राण:, महाप्राण:, उदात्त: अनुदात्त:, स्वरित: ।
    (६२.) तपर: इत्यत्र कथं विग्रह: ? क: समास: ? – त: परो यस्मात् सो तपर इति बहुव्रीहि:, तात् पर: तपर: इति तत्पुरुषो वा ।
    55. वृद्धिरादैच् इति कीदृशं सूत्रम् ? - संज्ञासूत्रम् ।
Working...
X