Sri:
Small writeup on Elephant
Try to translate in Tamil or English
--------------------------------------------
मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः ।
अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि ।
अस्य पादाः स्तम्भाः इव अतीव स्थूलाः ।
कर्णौ शूर्पे इव अति विशालौ ।
नेत्रे तु ल्घ्वाकारकौ ।
तथापि सः सूक्ष्माण्यपि वस्तूनि द्रष्टुं शक्नोति |
करी शाकाहारी ।
गजस्य शरीरं विशालं, धूसरवर्णञ्च ।
सहजसाधुरयं गम्भीरस्वभावः ।
गमनं तु प्रायः मन्दं भवति ।
गजस्य रवः घीङ्कारः इत्युच्यते ।
सामूहिकस्वेच्छाजीवनं, दीर्घकालपर्यन्तं स्नानकरणञ्च गजानाम् अभीष्टम् ।
यः हस्तिनं चालयति सः हस्तिपकः इति कथ्यते ।
राजानः गजान् आरुह्य विहरन्ति स्म ।
मृगयार्थम् अपि गच्छन्ति स्म ।
युद्धेषु गजसेनायाः प्राधान्यम् आसीत् ।
गजानां दन्तैः विविधानि पेटिकादीनि वस्तूनि कुर्वन्ति ।

Dear you, Thanks for Visiting Brahmins Net!
JaiHind! Feel free to post whatever you think useful, legal or humer! Click here to Invite Friends